Sukta 1.185
भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते । नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
भूरिं॒ द्वे अच॑रन्ती॒ चर॑न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी॑ दधाते । नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥
bhū́riṃ dve ácarantī cárantaṃ padvántaṃ gárbham apádī dadhāte | nítyaṃ ná sūnúṃ pitrór upásthe dyā́vā rakṣataṃ pṛthivī no abhvā́t ||
Two vast ones, unmoving, yet they establish the moving embryo that has feet—while itself is footless. Like parents holding their constant son upon their lap, O Heaven and Earth, protect us from the vast assault.
भूरि॑ । द्वे इति॑ । अच॑रन्ती॒ इति॑ । चर॑न्तम् । प॒त्ऽवन्तम् । गर्भ॑म् । अ॒पदी॒ इति॑ । द॒धा॒ते॒ इति॑ । नित्य॑म् । न । सू॒नुम् । पि॒त्रोः । उ॒पऽस्थे॑ । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥भूरि । द्वे इति । अचरन्ती इति । चरन्तम् । पत्वन्तम् । गर्भम् । अपदी इति । दधाते इति । नित्यम् । न । सूनुम् । पित्रोः । उपस्थे । द्यावा । रक्षतम् । पृथिवी इति । नः । अभ्वात् ॥bhūri | dve iti | acarantī iti | carantam | pat-vantam | garbham | apadī iti | dadhāteiti | nityam | na | sūnum | pitroḥ | upa-sthe | dyāvā | rakṣatam | pṛthivī iti | naḥ | abhvāt