Sukta 1.185
कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद । विश्वं त्मना बिभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव ॥
क॒त॒रा पूर्वा॑ कत॒राप॑रा॒योः क॒था जा॒ते क॑वय॒: को वि वे॑द । विश्वं॒ त्मना॑ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये॑व ॥
katarā́ pū́rvā katarā́ aparā́yoḥ kathā́ jāte kaváyaḥ kó ví veda | víśvaṃ tmanā́ bibhṛtó yád dha nā́ma ví vartete áhanī cakriyéva ||
Which of the two is first and which is later—how were they born, and who among the seers truly knows? Bearing the whole by their own self-power, Day and Night turn apart like a wheel set in motion.
क॒त॒रा । पूर्वा॑ । क॒त॒रा । अप॑रा । अ॒योः । क॒था । जा॒ते इति॑ । क॒व॒यः॒ । कः । वि । वे॒द॒ । विश्व॑म् । त्मना॑ । बि॒भृ॒तः॒ । यत् । ह॒ । नाम॑ । वि । व॒र्ते॒ते॒ । अह॑नी॒ इति॑ । च॒क्रिया॑ऽइव ॥कतरा । पूर्वा । कतरा । अपरा । अयोः । कथा । जाते इति । कवयः । कः । वि । वेद । विश्वम् । त्मना । बिभृतः । यत् । ह । नाम । वि । वर्तेते । अहनी इति । चक्रियाइव ॥katarā | pūrvā | katarā | aparā | ayoḥ | kathā | jāte iti | kavayaḥ | kaḥ | vi | veda | viśvam | tmanā | bibhṛtaḥ | yat | ha | nāma | vi | vartete | ahanī iti | cakriyāiva