Sukta 1.183
युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान् । दिशं न दिष्टामृजूयेव यन्ता मे हवं नासत्योप यातम् ॥
यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् । दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यन्ता मे॒ हवं॑ नास॒त्योप॑ यातम् ॥
yuvā́ṃ gótamaḥ purumīḷhó átrir dasrā́ haváte'váse havíṣmān | díśaṃ ná diṣṭā́m ṛjūyéva yántā mé hávaṃ nāsatyópa yātam ||
You two are called by Gotama, by Atri the much-praised—O wondrous ones—for help with the offering-force. Come to my call as one goes straight to a pointed direction; O Nāsatyas, draw near.
यु॒वम् । गोत॑मः । पु॒रु॒ऽमी॒ळ्हः । अत्रिः॑ । दस्रा॑ । हव॒ते । अव॑से । ह॒विष्मा॑न् । दिश॑म् । न । दि॒ष्टाम् । ऋ॒जु॒याऽइ॑व । यन्ता॑ । आ । मे॒ । हव॑म् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ॥युवम् । गोतमः । पुरुमीळ्हः । अत्रिः । दस्रा । हवते । अवसे । हविष्मान् । दिशम् । न । दिष्टाम् । ऋजुयाइव । यन्ता । आ । मे । हवम् । नासत्या । उप । यातम् ॥yuvam | gotamaḥ | puru-mīḷhaḥ | atriḥ | dasrā | havate | avase | haviṣmān | diśam | na | diṣṭām | ṛjuyāiva | yantā | ā | me | havam | nāsatyā | upa | yātam