Sukta 1.182
अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः । धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥
अभू॑दि॒दं व॒युन॒मो षु भू॑षता॒ रथो॒ वृष॑ण्वा॒न्मद॑ता मनीषिणः । धि॒यं॒जि॒न्वा धिष्ण्या॑ वि॒श्पला॑वसू दि॒वो नपा॑ता सु॒कृते॒ शुचि॑व्रता ॥
abhūd idaṃ vayunam o ṣu bhūṣatā ratho vṛṣaṇvān madata manīṣiṇaḥ | dhiyam-jinvā dhiṣṇyā viśpalāvasū divo napātā su-kṛte śuci-vratā ||
This ordered understanding has come into being; now adorn it—let your strong chariot rejoice, O wise ones. Quickening the thought, O powers of the luminous seat, O possessors of far-ranging riches, sons of Heaven, pure in your law, come for the right making.
अभू॑त् । इ॒दम् । व॒युन॑म् । ओ इति॑ । सु । भू॒ष॒त॒ । रथः॑ । वृष॑ण्ऽवान् । मद॑त । म॒नी॒षि॒णः॒ । धि॒य॒म्ऽजि॒न्वा । धिष्ण्या॑ । वि॒श्पला॑वसू॒ इति॑ । दि॒वः । नपा॑ता । सु॒ऽकृते॑ । शुचि॑ऽव्रता ॥अभूत् । इदम् । वयुनम् । ओ इति । सु । भूषत । रथः । वृषण्वान् । मदत । मनीषिणः । धियम्जिन्वा । धिष्ण्या । विश्पलावसू इति । दिवः । नपाता । सुकृते । शुचिव्रता ॥abhāūt | idam | vayunam | o iti | su | bhūṣata | rathaḥ | vṛṣaṇ-vān | madata | manīṣiṇaḥ | dhiyam-jinvā | dhiṣṇyā | viśpalāvasūiti | divaḥ | napātā | su-kṛte | śuci-vratā