Sukta 1.181
उत स्या वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वते नॄन् । वृषा वां मेघो वृषणा पीपाय गोर्न सेके मनुषो दशस्यन् ॥
उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् । वृषा॑ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ॥
uta syā vāṃ ruśato vapsaso gīs tri-barhiṣi sadasi pinvate nṝn | vṛṣā vāṃ megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan ||
And that radiant hymn of yours, clothed in shining beauty, in the seat with the threefold barhis, enlarges the human powers. A strong cloud, O mighty ones, fills you with increase—like a watering that makes the cow fruitful—when the mortal serves you with skill.
उ॒त । स्या । वा॒म् । रुश॑तः । वप्स॑सः । गीः । त्रि॒ऽब॒र्हिषि॑ । सद॑सि । पि॒न्व॒ते॒ । नॄन् । वृषा॑ । वा॒म् । मे॒घः । वृ॒ष॒णा॒ । पी॒पा॒य॒ । गोः । न । सेके॑ । मनु॑षः । द॒श॒स्यन् ॥उत । स्या । वाम् । रुशतः । वप्ससः । गीः । त्रिबर्हिषि । सदसि । पिन्वते । नॄन् । वृषा । वाम् । मेघः । वृषणा । पीपाय । गोः । न । सेके । मनुषः । दशस्यन् ॥uta | syā | vām | ruśataḥ | vapsasaḥ | gīḥ | tri-barhiṣi | sadasi | pinvate | nṝn | vṛṣā | vām | meghaḥ | vṛṣaṇā | pīpāya | goḥ | na | seke | manuṣaḥ | daśasyan