Sukta 1.181
युवां पूषेवाश्विना पुरंधिरग्निमुषां न जरते हविष्मान् । हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥
यु॒वां पू॒षेवा॑श्विना॒ पुरं॑धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् । हु॒वे यद्वां॑ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
yuvāṃ pūṣevāśvinā puraṃdhir agnim uṣāṃ na jarate haviṣmān | huve yad vāṃ varivasyā gṛṇāno vidyām eṣaṃ vṛjanaṃ jīra-dānum ||
You two, like Pūṣan, are the power that brings fulfilment; and like Dawn you do not grow old for the one who holds the offering. When I call you with the will to widen the path, praising you, may we know the impelling quest and the victorious overcoming, and win the swift-giving bounty.
यु॒वाम् । पू॒षाऽइ॑व । अ॒श्वि॒ना॒ । पुर॑म्ऽधिः । अ॒ग्निम् । उ॒षाम् । न । ज॒र॒ते॒ । ह॒विष्मा॑न् । हु॒वे । यत् । वा॒म् । व॒रि॒व॒स्या । गृ॒णा॒नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥युवाम् । पूषाइव । अश्विना । पुरम्धिः । अग्निम् । उषाम् । न । जरते । हविष्मान् । हुवे । यत् । वाम् । वरिवस्या । गृणानः । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥yuvām | pūṣāiva | aśvinā | puram-dhiḥ | agnim | uṣām | na | jarate | haviṣmān | huve | yat | vām | varivasyā | gṛṇānaḥ | vidyāma | iṣam | vṛjanam | jīra-dānum