Sukta 1.181
असर्जि वां स्थविरा वेधसा गीर्बाळ्हे अश्विना त्रेधा क्षरन्ती । उपस्तुताववतं नाधमानं यामन्नयामञ्छृणुतं हवं मे ॥
अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे अ॑श्विना त्रे॒धा क्षर॑न्ती । उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया॑मञ्छृणुतं॒ हवं॑ मे ॥
asarji vāṃ sthavirā vedhasā gīr bāḷhe aśvinā tredhā kṣarantī | upa-stutāv avatam nādhamānaṃ yāmann ayāman śṛṇutaṃ havaṃ me ||
A strong and shaping word has been released for you, O steadfast Aśvins, flowing in three streams. In the act of praise protect the one who labours; in the right journey and in the difficult journey, hear my call.
अस॑र्जि । वा॒म् । स्थवि॑रा । वे॒ध॒सा॒ । गीः । बा॒ळ्हे । अ॒श्वि॒ना॒ । त्रे॒धा । क्षर॑न्ती । उप॑ऽस्तुतौ । अ॒व॒त॒म् । नाध॑मानम् । याम॑न् । अया॑मन् । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥असर्जि । वाम् । स्थविरा । वेधसा । गीः । बाळ्हे । अश्विना । त्रेधा । क्षरन्ती । उपस्तुतौ । अवतम् । नाधमानम् । यामन् । अयामन् । शृणुतम् । हवम् । मे ॥asarji | vām | sthavirā | vedhasā | gīḥ | bāḷhe | aśvinā | tredhā | kṣarantī | upa-stutau | avatam | nādhamānam | yāman | ayāman | śṛṇutam | havam | me