Sukta 1.181
प्र वां शरद्वान्वृषभो न निष्षाट् पूर्वीरिषश्चरति मध्व इष्णन् । एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः ॥
प्र वां॑ श॒रद्वा॑न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन् । एवै॑र॒न्यस्य॑ पी॒पय॑न्त॒ वाजै॒र्वेष॑न्तीरू॒र्ध्वा न॒द्यो॑ न॒ आगु॑: ॥
pra vāṃ śarat-vān vṛṣabho na niṣṣāṭ pūrvīr iṣaś carati madhva iṣṇan | evair anyasya pīpayanta vājair veṣantīr ūrdhvā nadyo naḥ ā aguḥ ||
Forth your vigorous power springs like a bull released; it moves with the ancient impulses, pressing out the honeyed delight. With swift currents it fills one of you with plenitudes of force; like rivers rising upward, the energies come to us, aspiring and calling.
प्र । वा॒म् । श॒रत्ऽवा॑न् । वृ॒ष॒भः । न । नि॒ष्षाट् । पू॒र्वीः । इषः॑ । च॒र॒ति॒ । मध्वः॑ । इ॒ष्णन् । एवैः॑ । अ॒न्यस्य॑ । पी॒पय॑न्त । वाजैः॑ । वेष॑न्तीः । ऊ॒र्ध्वाः । न॒द्यः॑ । नः॒ । आ । अ॒गुः॒ ॥प्र । वाम् । शरत्वान् । वृषभः । न । निष्षाट् । पूर्वीः । इषः । चरति । मध्वः । इष्णन् । एवैः । अन्यस्य । पीपयन्त । वाजैः । वेषन्तीः । ऊर्ध्वाः । नद्यः । नः । आ । अगुः ॥pra | vām | śarat-vān | vṛṣabhaḥ | na | niṣṣāṭ | pūrvīḥ | iṣaḥ | carati | madhvaḥ | iṣṇan | evaiḥ | anyasya | pīpayanta | vājaiḥ | veṣantīḥ | ūrdhvāḥ | nadyaḥ | naḥ | ā | aguḥ