Sukta 1.181
प्र वां निचेरुः ककुहो वशाँ अनु पिशङ्गरूपः सदनानि गम्याः । हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः ॥
प्र वां॑ निचे॒रुः क॑कु॒हो वशाँ॒ अनु॑ पि॒शङ्ग॑रूप॒: सद॑नानि गम्याः । हरी॑ अ॒न्यस्य॑ पी॒पय॑न्त॒ वाजै॑र्म॒थ्रा रजां॑स्यश्विना॒ वि घोषै॑: ॥
pra vāṃ ni-ceruḥ kakuhaḥ vaśān anu piśaṅga-rūpaḥ sadanāni gamyāḥ | harī anyasya pīpayanta vājair mathrā rajāṃsy aśvinā vi ghoṣaiḥ ||
Forth you move, following your own will, taking the heights, radiant in form, reaching the seats of the worlds. The two tawny steeds of one of you are filled with plenitudes of force; you churn the spaces with your resonant sounds, O Aśvins, and make the paths open.
प्र । वा॒म् । नि॒ऽचे॒रुः । क॒कु॒हः । वशा॑न् । अनु॑ । पि॒शङ्ग॑ऽरूपः । सद॑नानि । ग॒म्याः॒ । हरी॑ । अ॒न्यस्य॑ । पी॒पय॑न्त । वाजैः॑ । म॒थ्ना । रजां॑सि । अ॒श्वि॒ना॒ । वि । घोषैः॑ ॥प्र । वाम् । निचेरुः । ककुहः । वशान् । अनु । पिशङ्गरूपः । सदनानि । गम्याः । हरी । अन्यस्य । पीपयन्त । वाजैः । मथ्ना । रजांसि । अश्विना । वि । घोषैः ॥pra | vām | ni-ceruḥ | kakuhaḥ | vaśān | anu | piśaṅga-rūpaḥ | sadanāni | gamyāḥ | harī | anyasya | pīpayanta | vājaiḥ | mathnāa | rajāṃsi | aśvinā | vi | ghoṣaiḥ