Sukta 1.181
इहेह जाता समवावशीतामरेपसा तन्वा नामभिः स्वैः । जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ॥
इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा॑ त॒न्वा॒३॒॑ नाम॑भि॒: स्वैः । जि॒ष्णुर्वा॑म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो अ॒न्यः सु॒भग॑: पु॒त्र ऊ॑हे ॥
iheha jātā sam avāvaśītām arepasā tanvā nāmabhiḥ svaiḥ | jiṣṇur vām anyaḥ su-makhasya sūrir divo anyaḥ su-bhagaḥ putra ūhe ||
Here, here—born for this work—may you both be fully at home with your flawless being and your own true names. One of you is the conquering lord of a good sacrifice, the other a fortunate son of Heaven who brings the needed discernment.
इ॒हऽइ॑ह । जा॒ता । सम् । अ॒वा॒व॒शी॒ता॒म् । अ॒रे॒पसा॑ । त॒न्वा॑ । नाम॑ऽभिः । स्वैः । जि॒ष्णुः । वा॒म् । अ॒न्यः । सुऽम॑खस्य । सू॒रिः । दि॒वः । अ॒न्यः । सु॒ऽभगः॑ । पु॒त्रः । ऊ॒हे॒ ॥इहइह । जाता । सम् । अवावशीताम् । अरेपसा । तन्वा । नामभिः । स्वैः । जिष्णुः । वाम् । अन्यः । सुमखस्य । सूरिः । दिवः । अन्यः । सुभगः । पुत्रः । ऊहे ॥iha-iha | jātā | sam | avāvaśītām | arepasā | tanvā | nāma-bhiḥ | svaiḥ | jiṣṇuḥ | vām | anyaḥ | su-makhasya | sūriḥ | divaḥ | anyaḥ | su-bhagaḥ | putraḥ | ūhe