Sukta 1.181
आ वां रथोऽवनिर्न प्रवत्वान्त्सृप्रवन्धुरः सुविताय गम्याः । वृष्णः स्थातारा मनसो जवीयानहम्पूर्वो यजतो धिष्ण्या यः ॥
आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा॑न्त्सृ॒प्रव॑न्धुरः सुवि॒ताय॑ गम्याः । वृष्ण॑: स्थातारा॒ मन॑सो॒ जवी॑यानहम्पू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ॥
ā vāṃ ratho’vanir na pravatvānt sṛpra-vandhuraḥ suvitāya gamyāḥ | vṛṣṇaḥ sthātārā manaso javīyān aham-pūrvo yajato dhiṣṇyā yaḥ ||
May your chariot come—like a sure-moving support descending the slopes—well-yoked and carrying you towards the Good Passage. You two, strong upholders, swifter than mind, I who am first in the offering call upon you, O powers seated in the luminous seat, to take your stand within us.
आ । वा॒म् । रथः॑ । अ॒वनिः॑ । न । प्र॒वत्वा॑न् । सृ॒प्रऽव॑न्धुरः । सु॒वि॒ताय॑ । ग॒म्याः॒ । वृष्णः॑ । स्था॒ता॒रा॒ । मन॑सः । जवी॑यान् । अ॒ह॒म्ऽपू॒र्वः । य॒ज॒तः । धि॒ष्ण्या॒ । यः ॥आ । वाम् । रथः । अवनिः । न । प्रवत्वान् । सृप्रवन्धुरः । सुविताय । गम्याः । वृष्णः । स्थातारा । मनसः । जवीयान् । अहम्पूर्वः । यजतः । धिष्ण्या । यः ॥ā | vām | rathaḥ | avaniḥ | na | pravatvān | sṛpra-vandhuraḥ | suvitāya | gamyāḥ | vṛṣṇaḥ | sthātārā | manasaḥ | javīyān | aham-pūrvaḥ | yajataḥ | dhiṣṇyā | yaḥ