Sukta 1.181
आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः । मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥
आ वा॒मश्वा॑स॒: शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒ अत्या॑: । म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒ एह स्व॒राजो॑ अ॒श्विना॑ वहन्तु ॥
ā́ vām aśvā́saḥ śúcayaḥ payaspā́ vā́taraṃhaso divyā́so átyāḥ | manójavo vṛ́ṣaṇo vītápṛṣṭhā éha svārā́jo aśvinā vahantu ||
Let your horses come—pure, drinking the nourishing essence, wind-swift, divine runners; mind-impelled, strong, with backs well-trained for the yoke. Let them bring you here, O Ashvins, self-ruling powers, into our field of offering.
आ । वा॒म् । अश्वा॑सः । शुच॑यः । प॒यः॒ऽपाः । वात॑ऽरंहसः । दि॒व्यासः॑ । अत्याः॑ । म॒नः॒ऽजुवः॑ । वृष॑णः । वी॒तऽपृ॑ष्ठाः । आ । इ॒ह । स्व॒ऽराजः॑ । अ॒श्विना॑ । व॒ह॒न्तु॒ ॥आ । वाम् । अश्वासः । शुचयः । पयःपाः । वातरंहसः । दिव्यासः । अत्याः । मनःजुवः । वृषणः । वीतपृष्ठाः । आ । इह । स्वराजः । अश्विना । वहन्तु ॥ā | vām | aśvāsaḥ | śucayaḥ | payaḥ-pāḥ | vāta-raṃhasaḥ | divyāsaḥ | atyāḥ | manaḥ-juvaḥ | vṛṣaṇaḥ | vīta-pṛṣṭhāḥ | ā | iha | sva-rājaḥ | aśvinā | vahantu