Sukta 1.18
त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् । दक्षिणा पात्वंहसः ॥
त्वं तं ब्र॑ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य॑म् । दक्षि॑णा पा॒त्वंह॑सः ॥
tváṃ táṃ bráhmaṇaspate sóma índraś ca mártyam | dákṣiṇā pātv áṃhasaḥ ||
O Lord of the sacred Word, may you—together with Soma and Indra—protect that mortal from the constriction of wrong and error; and may Dakṣiṇā (the right-giving power) guard him by setting him in the true exchange between human effort and divine increase.
त्वम् । तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सोमः॑ । इन्द्रः॑ । च॒ । मर्त्य॑म् । दक्षि॑णा । पा॒तु॒ । अंह॑सः ॥त्वम् । तम् । ब्रह्मणः । पते । सोमः । इन्द्रः । च । मर्त्यम् । दक्षिणा । पातु । अंहसः ॥tvam | tam | brahmaṇaḥ | pate | somaḥ | indraḥ | ca | martyam | dakṣiṇā | pātu | aṃhasaḥ