Sukta 1.18
यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः ॥
यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । स न॑: सिषक्तु॒ यस्तु॒रः ॥
yó revā́n yó amīva-hā́ vasu-vít puṣṭi-várdhanaḥ | sá naḥ sisaktu yás turáḥ ||
He who is rich in luminous abundance, who slays the inner affliction, who finds the true wealth and increases our growth—may that swift power join himself to us and move us forward.
यः । रे॒वान् । यः । अ॒मी॒व॒ऽहा । व॒सु॒ऽवित् । पु॒ष्टि॒ऽवर्ध॑नः । सः । नः॒ । सि॒स॒क्तु॒ । यः । तु॒रः ॥यः । रेवान् । यः । अमीवहा । वसुवित् । पुष्टिवर्धनः । सः । नः । सिसक्तु । यः । तुरः ॥yaḥ | revān | yaḥ | amīva-hā | vasu-vit | puṣṭi-vardhanaḥ | saḥ | naḥ | sisaktu | yaḥ | turaḥ