Sukta 1.179
ये चिद्धि पूर्व ऋतसाप आसन्त्साकं देवेभिरवदन्नृतानि । ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥
ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ । ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥
yé cíd dhi pū́rve ṛtasā́pa āsan sā́kaṃ devébhiḥ ávadan ṛtā́ni | té cíd ávāsur náhy ántam ā́puḥ sam ū́ nú patnī́r vṛ́ṣabhīr jagamyuḥ ||
Even those of old who were companions of the Truth, who with the gods uttered the rhythms of the Real—even they passed away and did not reach the end. Yet now the consorts come together again with the mighty ones.
ये । चि॒त् । हि । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । आस॑न् । सा॒कम् । दे॒वेभिः॑ । अव॑दन् । ऋ॒तानि॑ । ते । चि॒त् । अव॑ । अ॒सुः॒ । न॒हि । अन्त॑म् । आ॒पुः । सम् । ऊँ॒ इति॑ । नु । पत्नीः॑ । वृष॑ऽभिः । ज॒ग॒म्युः॒ ॥ये । चित् । हि । पूर्वे । ऋतसापः । आसन् । साकम् । देवेभिः । अवदन् । ऋतानि । ते । चित् । अव । असुः । नहि । अन्तम् । आपुः । सम् । ऊँ इति । नु । पत्नीः । वृषभिः । जगम्युः ॥ye | cit | hi | pūrve | ṛta-sāpaḥ | āsan | sākam | devebhiḥ | avadan | ṛtāni | te | cit | ava | asuḥ | nahi | antam | āpuḥ | sam | oṃ iti | nu | patnīḥ | vṛṣa-bhiḥ | jagamyuḥ