Sukta 1.179
पूर्वीरहं शरदः शश्रमाणा दोषा वस्तोरुषसो जरयन्तीः । मिनाति श्रियं जरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः ॥
पू॒र्वीर॒हं श॒रद॑: शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रय॑न्तीः । मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥
pūrvī́r aháṃ śáradaḥ śaśramāṇā́ dóṣā vástor uṣáso jarayántīḥ | minā́ti śríyaṃ jarimā́ tanū́nām ápy ū nú patnī́r vṛ́ṣaṇo jagamyuḥ ||
Many seasons have I laboured through, wearing away nights and mornings and dawns. Age diminishes the beauty and radiance of the bodies; yet still the wives of the strong one draw near again.
पू॒र्वीः । अ॒हम् । श॒रदः॑ । श॒श्र॒मा॒णा । दो॒षाः । वस्तोः॑ । उ॒षसः॑ । ज॒रय॑न्तीः । मि॒नाति॑ । श्रिय॑म् । ज॒रि॒मा । त॒नूना॑म् । अपि॑ । ऊँ॒ इति॑ । नु । पत्नीः॑ । वृष॑णः । ज॒ग॒म्युः॒ ॥पूर्वीः । अहम् । शरदः । शश्रमाणा । दोषाः । वस्तोः । उषसः । जरयन्तीः । मिनाति । श्रियम् । जरिमा । तनूनाम् । अपि । ऊँ इति । नु । पत्नीः । वृषणः । जगम्युः ॥pūrvīḥ | aham | śaradaḥ | śaśramāṇā | doṣāḥ | vastoḥ | uṣasaḥ | jarayantīḥ | mināti | śriyam | jarimā | tanūnām | api | oṃ iti | nu | patnīḥ | vṛṣaṇaḥ | jagamyuḥ