Sukta 1.176
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥
यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ । तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
yáthā pū́rvebhyo jaritṛ́bhya indra máyā ivā́po ná tṛ́ṣyate babhū́tha | tā́m ánu tvā nivídaṃ johavīmi vidyā́meṣáṃ vṛ́janaṃ jīrá-dānum ||
As thou wast to the former singers, O Indra—like pleasant waters that do not fail the thirsty—so following that same revealing word (nivid) I call thee: may we find the impulsion and the victorious plenitude, O giver swift in bounty.
यथा॑ । पूर्वे॑भ्यः । ज॒रि॒तृऽभ्यः॑ । इ॒न्द्र॒ । मयः॑ऽइव । आपः॑ । न । तृष्य॑ते । ब॒भूथ॑ । ताम् । अनु॑ । त्वा॒ । नि॒ऽविद॑म् । जो॒ह॒वी॒मि॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥यथा । पूर्वेभ्यः । जरितृभ्यः । इन्द्र । मयःइव । आपः । न । तृष्यते । बभूथ । ताम् । अनु । त्वा । निविदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥yathā | pūrvebhyaḥ | jaritṛ-bhyaḥ | indra | mayaḥ-iva | āpaḥ | na | tṛṣyate | babhūtha | tām | anu | tvā | ni-vidam | johavīmi | vidyāma | iṣam | vṛjanam | jīra-dānum