Sukta 1.176
आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत् । आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥
आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् । आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
ā́vo yásya dví-barhaso ’rkéṣu sānuṣág ásat | ājā́v índrasyéndo prá̄́vo vā́jeṣu vā́jinam ||
Thou hast helped—he whose double-strength is established continuously in the chants. In the battle, O Indu (Soma), thou hast further helped the racer of Indra in the plenitudes of force.
आवः॑ । यस्य॑ । द्वि॒ऽबर्ह॑सः । अ॒र्केषु॑ । सा॒नु॒षक् । अस॑त् । आ॒जौ । इन्द्र॑स्य । इ॒न्दो॒ इति॑ । प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥आवः । यस्य । द्विबर्हसः । अर्केषु । सानुषक् । असत् । आजौ । इन्द्रस्य । इन्दो इति । प्र । आवः । वाजेषु । वाजिनम् ॥āvaḥ | yasya | dvi-barhasaḥ | arkeṣu | sānuṣak | asat | ājau | indrasya | indo iti | pra | āvaḥ | vājeṣu | vājinam