Sukta 1.174
सना ता त इन्द्र नव्या आगुः सहो नभोऽविरणाय पूर्वीः । भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः ॥
सना॒ ता त॑ इन्द्र॒ नव्या॒ आगु॒: सहो॒ नभोऽवि॑रणाय पू॒र्वीः । भि॒नत्पुरो॒ न भिदो॒ अदे॑वीर्न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥
sanā́ tā́ ta indra návyā ā́guḥ sáho nábho ’ví-raṇāya pūrvī́ḥ | bhínat púro ná bhído ádevīr nánamo vádhar ádevasya pīyóḥ ||
From of old, and again anew, these thy forces have come, O Indra, the mights of heaven for the conquering without battle. Thou breakest the forts as one breaks the breakers; the weapon of the undivine bows down before thee, the drinker of the pressed delight.
सना॑ । ता । ते॒ । इ॒न्द्र॒ । नव्याः॑ । आ । अ॒गुः॒ । सहः॑ । नभः॑ । अवि॑ऽरणाय । पू॒र्वीः । भि॒नत् । पुरः॑ । न । भिदः॑ । अदे॑वीः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥सना । ता । ते । इन्द्र । नव्याः । आ । अगुः । सहः । नभः । अविरणाय । पूर्वीः । भिनत् । पुरः । न । भिदः । अदेवीः । ननमः । वधः । अदेवस्य । पीयोः ॥sanā | tā | te | indra | navyāḥ | ā | aguḥ | sahaḥ | nabhaḥ | avi-raṇāya | pūrvīḥ | bhinat | puraḥ | na | bhidaḥ | adevīḥ | nanamaḥ | vadhaḥ | adevasya | pīyoḥ