Sukta 1.174
रपत्कविरिन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः । करत्तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मृधि श्रेत् ॥
रप॑त्क॒विरि॑न्द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः । कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त् ॥
rápat kavír indrārká-sātau kṣā́ṃ dāsā́yopá-barhaṇīṃ kaḥ | kárat tísro maghávā dā́nu-citrā ní duryóṇe kúyavācaṃ mṛdhí śret ||
Swift moves the seer, O Indra, in the winning of the hymn; who made the earth a couch for the Dāsa? The bounteous made the three many-formed Dānu-powers; he cast down in the hard seat the false-speaking one, and in the battle he shattered him.
रप॑त् । क॒विः । इ॒न्द्र॒ । अ॒र्कऽसा॑तौ । क्षाम् । दा॒साय॑ । उ॒प॒ऽबर्ह॑णीम् । क॒रिति॑ कः । कर॑त् । ति॒स्रः । म॒घऽवा॑ । दानु॑ऽचित्राः । नि । दु॒र्यो॒णे । कुय॑वाचम् । मृ॒धि । श्रे॒त् ॥रपत् । कविः । इन्द्र । अर्कसातौ । क्षाम् । दासाय । उपबर्हणीम् । करिति कः । करत् । तिस्रः । मघवा । दानुचित्राः । नि । दुर्योणे । कुयवाचम् । मृधि । श्रेत् ॥rapat | kaviḥ | indra | arka-sātau | kṣām | dāsāya | upa-barhaṇīm | karitikaḥ | karat | tisraḥ | magha-vā | dānu-citrāḥ | ni | duryoṇe | kuyavācam | mṛdhi | śret