Sukta 1.174
वह कुत्समिन्द्र यस्मिञ्चाकन्त्स्यूमन्यू ऋज्रा वातस्याश्वा । प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः ॥
वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ । प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥
váha kútsam indra yásmiṃ cā́kans syūmanyū́ ṛjrā́ vā́tasya áśvā | prá sū́raś cakráṃ vṛhatād abhī́ke ’bhí spṛ́dho yā́siṣad vájra-bāhuḥ ||
Bear Kutsa, O Indra, in whom the uplifted ardour is awake, and the straight horses of the Wind are yoked. The Sun sets forward the wide wheel in the near encounter; the arm of the thunderbolt presses on against all rivalries.
वह॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । स्यू॒म॒न्यू इति॑ । ऋ॒ज्रा । वात॑स्य । अस्वा॑ । प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ । अ॒भि । स्पृधः॑ । या॒सि॒ष॒त् । वज्र॑ऽबाहुः ॥वह । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । स्यूमन्यू इति । ऋज्रा । वातस्य । अस्वा । प्र । सूरः । चक्रम् । वृहतात् । अभीके । अभि । स्पृधः । यासिषत् । वज्रबाहुः ॥vaha | kutsam | indra | yasmin | cākan | syūmanyū iti | ṛjrā | vātasya | asvā | pra | sūraḥ | cakram | vṛhatāt | abhīke | abhi | spṛdhaḥ | yāsiṣat | vajra-bāhuḥ