Sukta 1.174
शेषन्नु त इन्द्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना । सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान् ॥
शेष॒न्नु त इ॑न्द्र॒ सस्मि॒न्योनौ॒ प्रश॑स्तये॒ पवी॑रवस्य म॒ह्ना । सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी॑ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ॥
śéṣan nu tá indra sásmin yónau prá-śastaye pavī́ravasya mahnā́ | sṛjád arṇā́ṃsy áva yád yudhā́ gā́s tíṣṭhadd hárī dhṛṣátā mṛṣṭá vājā́n ||
Now remain thou, O Indra, in this womb of our being for the praise of him who brings the purifying stream, by thy greatness. When in battle thou releasest the floods downward, thy two tawny steeds stand firm, boldly grooming the plenitudes of force.
शेष॑न् । नु । ते । इ॒न्द्र॒ । सस्मि॑न् । योनौ॑ । प्रऽश॑स्तये । पवी॑रवस्य । म॒ह्ना । सृ॒जत् । अर्णां॑सि । अव॑ । यत् । यु॒धा । गाः । तिष्ठ॑त् । हरी॒ इति॑ । धृ॒ष॒ता । मृ॒ष्ट॒ । वाजा॑न् ॥शेषन् । नु । ते । इन्द्र । सस्मिन् । योनौ । प्रशस्तये । पवीरवस्य । मह्ना । सृजत् । अर्णांसि । अव । यत् । युधा । गाः । तिष्ठत् । हरी इति । धृषता । मृष्ट । वाजान् ॥śeṣan | nu | te | indra | sasmin | yonau | pra-śastaye | pavīravasya | mahnā | sṛjat | arṇāṃsi | ava | yat | yudhā | gāḥ | tiṣṭhat | harī iti | dhṛṣatā | mṛṣṭa | vājān