Sukta 1.174
दनो विश इन्द्र मृध्रवाचः सप्त यत्पुरः शर्म शारदीर्दर्त् । ऋणोरपो अनवद्यार्णा यूने वृत्रं पुरुकुत्साय रन्धीः ॥
दनो॒ विश॑ इन्द्र मृ॒ध्रवा॑चः स॒प्त यत्पुर॒: शर्म॒ शार॑दी॒र्दर्त् । ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने॑ वृ॒त्रं पु॑रु॒कुत्सा॑य रन्धीः ॥
dáno víśa indra mṛdhrá-vācaḥ saptá yát púraḥ śárma śā́radīr dárta | ṛṇór apó anavadyā́rṇā yū́ne vṛtráṃ puru-kútsāya randhīḥ ||
Thou didst subdue, O Indra, the hostile-speaking peoples; thou didst break the seven firmholds that stood as a cover through the seasons. Thou didst open the faultless waters in their flood; thou didst make Vṛtra yield to the young and advancing soul (Puru-kutsa).
दनः॑ । विशः॑ । इ॒न्द्र॒ । मृ॒ध्रऽवा॑चः । स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् । ऋ॒णोः । अ॒पः । अ॒न॒व॒द्य॒ । अर्णाः॑ । यूने॑ । वृ॒त्रम् । पु॒रु॒ऽकुत्सा॑य । र॒न्धीः॒ ॥दनः । विशः । इन्द्र । मृध्रवाचः । सप्त । यत् । पुरः । शर्म । शारदीः । दर्त् । ऋणोः । अपः । अनवद्य । अर्णाः । यूने । वृत्रम् । पुरुकुत्साय । रन्धीः ॥danaḥ | viśaḥ | indra | mṛdhra-vācaḥ | sapta | yat | puraḥ | śarma | śāradīḥ | darta | ṛṇoḥ | apaḥ | anavadya | arṇāḥ | yūne | vṛtram | puru-kutsāya | randhīḥ