Sukta 1.174
त्वं राजेन्द्र ये च देवा रक्षा नॄन्पाह्यसुर त्वमस्मान् । त्वं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः ॥
त्वं राजे॑न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् । त्वं सत्प॑तिर्म॒घवा॑ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ॥
tváṃ rā́jendrá yé ca devā́ rákṣa nṝ́n pā́hy asura tvám asmā́n | tváṃ sát-patir maghávā nas tárutras tváṃ satyó vasavānaḥ sahó-dāḥ ||
Thou art the king, O Indra, with all the gods: protect the human powers in us; guard us, O Asura, Lord of conscious might. Thou art the master of the true being, the bounteous giver; for us thou art the deliverer across all hazards. Thou art the True, the wealthy in plenitude, the bestower of force.
त्वम् । राजा॑ । इ॒न्द्र॒ । ये । च॒ । दे॒वाः । रक्ष॑ । नॄन् । पा॒हि । अ॒सु॒र॒ । त्वम् । अ॒स्मान् । त्वम् । सत्ऽप॑तिः । म॒घऽवा॑ । नः॒ । तरु॑त्रः । त्वम् । स॒त्यः । वस॑वानः । स॒हः॒ऽदाः ॥त्वम् । राजा । इन्द्र । ये । च । देवाः । रक्ष । नॄन् । पाहि । असुर । त्वम् । अस्मान् । त्वम् । सत्पतिः । मघवा । नः । तरुत्रः । त्वम् । सत्यः । वसवानः । सहःदाः ॥tvam | rājā | indra | ye | ca | devāḥ | rakṣa | nṝn | pāhi | asura | tvam | asmān | tvam | sat-patiḥ | magha-vā | naḥ | tarutraḥ | tvam | satyaḥ | vasavānaḥ | sahaḥ-dāḥ