Sukta 1.173
एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः । विश्वा ते अनु जोष्या भूद्गौः सूरीँश्चिद्यदि धिषा वेषि जनान् ॥
ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद॑न्ति दे॒वीः । विश्वा॑ ते॒ अनु॒ जोष्या॑ भू॒द्गौः सू॒रीँश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ॥
evā́ hí te śáṃ sávanā samudrá ā́po yát ta ā́sú mádanti devī́ḥ | víśvā te ánu jóṣyā bhūd gáuḥ sūrī́ṃś cid yádi dhiṣā́ véṣi jánān ||
Thus indeed, your pressings are bliss in the ocean: when the divine waters take delight in you within them. Then all things become consenting to you; and the Cow (the ray of illumination) too—if by the inspired understanding you seek out and guide the peoples, even the illumined leaders follow.
ए॒व । हि । ते॒ । शम् । सव॑ना । स॒मु॒द्रे । आपः॑ । यत् । ते॒ । आ॒सु । मद॑न्ति । दे॒वीः । विश्वा॑ । ते॒ । अनु॑ । जोष्या॑ । भू॒त् । गौः । सू॒रीन् । चि॒त् । यदि॑ । धि॒षा । वेषि॑ । जना॑न् ॥एव । हि । ते । शम् । सवना । समुद्रे । आपः । यत् । ते । आसु । मदन्ति । देवीः । विश्वा । ते । अनु । जोष्या । भूत् । गौः । सूरीन् । चित् । यदि । धिषा । वेषि । जनान् ॥eva | hi | te | śam | savanā | samudre | āpaḥ | yat | te | āsu | madanti | devīḥ | viśvā | te | anu | joṣyā | bhūt | gauḥ | sūrīn | cit | yadi | dhiṣā | veṣi | janān