Sukta 1.173
प्र यदित्था महिना नृभ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै । सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावाँ ओपशमिव द्याम् ॥
प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॒॑ नास्मै॑ । सं वि॑व्य॒ इन्द्रो॑ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ॑ ओप॒शमि॑व॒ द्याम् ॥
prá yád itthā́ mahinā́ nṛ́bhyo ásty áraṃ ródasī kakṣyé nā́smái | sáṃ vivyá índro vṛjánaṃ ná bhū́mā bhárti svadhā́vām̐ opaśám iva dyā́m ||
For when thus by his greatness there is room enough for men, the two worlds are not as a narrow enclosure to him. Indra has spread out in fullness; like the wide earth he bears the field of our striving, and by his own inherent power he upholds the heaven as with a supporting band.
प्र । यत् । इ॒त्था । म॒हि॒ना । नृऽभ्यः॑ । अस्ति॑ । अर॑म् । रोद॑सी॒ इति॑ । क॒क्ष्ये॒ इति॑ । न । अ॒स्मै॒ । सम् । वि॒व्ये॒ । इन्द्रः॑ । वृ॒जन॑म् । न । भूम॑ । भर्ति॑ । स्व॒धाऽवा॑न् । ओ॒प॒शम्ऽइ॑व । द्याम् ॥प्र । यत् । इत्था । महिना । नृभ्यः । अस्ति । अरम् । रोदसी इति । कक्ष्ये इति । न । अस्मै । सम् । विव्ये । इन्द्रः । वृजनम् । न । भूम । भर्ति । स्वधावान् । ओपशम्इव । द्याम् ॥pra | yat | itthā | mahinā | nṛ-bhyaḥ | asti | aram | rodasī iti | kakṣye iti | na | asmai | sam | vivye | indraḥ | vṛjanam | na | bhūma | bharti | svadhāvān | opaśam-iva | dyām