Sukta 1.173
ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते । जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥
ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यन्तो॑ भरन्ते । जुजो॑ष॒दिन्द्रो॑ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो॑ रथे॒ष्ठाः ॥
tā karmā́ṣatarāsmái prá cyautnā́ni devayánto bharante | jujóṣad índro dasmávarcā nā́satyāiva sugmyò ratheṣṭhā́ḥ ||
They, aspiring toward the Divine, bring forward for him those more and more perfected works and puissant initiatives. May Indra, of wondrous radiance, accept them—swift in the right movement, firm in the chariot like the Nāsatyas (the twin powers of sure arrival).
ता । क॒र्म॒ । अष॑ऽतरा । अ॒स्मै॒ । प्र । च्यौ॒त्नानि॑ । दे॒व॒ऽयन्तः॑ । भ॒र॒न्ते॒ । जुजो॑षत् । इन्द्रः॑ । द॒स्मऽव॑र्चाः । नास॑त्याऽइव । सुग्म्यः॑ । र॒थे॒ऽस्थाः ॥ता । कर्म । अषतरा । अस्मै । प्र । च्यौत्नानि । देवयन्तः । भरन्ते । जुजोषत् । इन्द्रः । दस्मवर्चाः । नासत्याइव । सुग्म्यः । रथेस्थाः ॥tā | karma | aṣa-tarā | asmai | pra | cyautnāni | deva-yantaḥ | bharante | jujoṣat | indraḥ | dasma-varcāḥ | nāsatyāiva | sugmyaḥ | rathe--sthāḥ