Sukta 1.173
नक्षद्धोता परि सद्म मिता यन्भरद्गर्भमा शरदः पृथिव्याः । क्रन्ददश्वो नयमानो रुवद्गौरन्तर्दूतो न रोदसी चरद्वाक् ॥
नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रद॑: पृथि॒व्याः । क्रन्द॒दश्वो॒ नय॑मानो रु॒वद्गौर॒न्तर्दू॒तो न रोद॑सी चर॒द्वाक् ॥
nákṣad hótā pári sádma mitā́ yán bhárad gárbham ā́ śáradaḥ pṛthivyā́ḥ | krándad áśvo náyamāno ruvád gáur antár dūtó ná rodasī́ íti carád vāk ||
The Hotar reaches and encompasses the measured dwelling as he bears the embryo from the earth’s seasons. Like a neighing horse led onward, like a lowing bull, the word moves within—like a messenger between the two worlds—wandering in speech between Heaven and Earth.
नक्ष॑त् । होता॑ । परि॑ । सद्म॑ । मि॒ता । यन् । भर॑त् । गर्भ॑म् । आ । श॒रदः॑ । पृ॒थि॒व्याः । क्रन्द॑त् । अश्वः॑ । नय॑मानः । रु॒वत् । गौः । अ॒न्तः । दू॒तः । न । रोद॑सी॒ इति॑ । च॒र॒त् । वाक् ॥नक्षत् । होता । परि । सद्म । मिता । यन् । भरत् । गर्भम् । आ । शरदः । पृथिव्याः । क्रन्दत् । अश्वः । नयमानः । रुवत् । गौः । अन्तः । दूतः । न । रोदसी इति । चरत् । वाक् ॥nakṣat | hotā | pari | sadma | mitā | yan | bharat | garbham | ā | śaradaḥ | pṛthivyāḥ | krandat | aśvaḥ | nayamānaḥ | ruvat | gauḥ | antaḥ | dūtaḥ | na | rodasī iti | carat | vāk