Sukta 1.173
अर्चद्वृषा वृषभिः स्वेदुहव्यैर्मृगो नाश्नो अति यज्जुगुर्यात् । प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥
अर्च॒द्वृषा॒ वृष॑भि॒: स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात् । प्र म॑न्द॒युर्म॒नां गू॑र्त॒ होता॒ भर॑ते॒ मर्यो॑ मिथु॒ना यज॑त्रः ॥
árcad vṛ́ṣā vṛ́ṣabhíḥ svéd u-havyair mṛgó nā́śno áti yáj juguryā́t | prá mandayúr manā́ṁ gū́rta hótā bhárate máryo mithunā́ yájatraḥ ||
The Bull is praised by the bulls, by those whose offering is their own delight; like a wild beast he passes beyond the eater when he is to be awakened. The inspired and eager Hotar bears forward the thought; the youthful sacrificer brings the paired offerings, worthy of worship.
अर्च॒त् । वृषा॑ । वृष॑ऽभिः । स्वऽइदु॑हव्यैः । मृ॒गः । न । अश्नः॑ । अति॑ । यत् । जु॒गु॒र्यात् । प्र । म॒न्द॒युः । म॒नाम् । गू॒र्त॒ । होता॑ । भर॑ते । मर्यः॑ । मि॒थु॒ना । यज॑त्रः ॥अर्चत् । वृषा । वृषभिः । स्वइदुहव्यैः । मृगः । न । अश्नः । अति । यत् । जुगुर्यात् । प्र । मन्दयुः । मनाम् । गूर्त । होता । भरते । मर्यः । मिथुना । यजत्रः ॥arcat | vṛṣā | vṛṣa-bhiḥ | sva-iduhavyaiḥ | mṛgaḥ | na | aśnaḥ | ati | yat | juguyārt | pra | mandayuḥ | manām | gūrta | hotā | bharate | maryaḥ | mithunā | yajatraḥ