Sukta 1.173
गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत् । गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान् ॥
गाय॒त्साम॑ नभ॒न्यं१॒॑ यथा॒ वेरर्चा॑म॒ तद्वा॑वृधा॒नं स्व॑र्वत् । गावो॑ धे॒नवो॑ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं॑ दि॒व्यं विवा॑सान् ॥
gā́yat sā́ma nabhanyàṁ yáthā vér arcā́ma tád vāvṛdhānáṁ svàrvat | gā́vo dhenávo barhíṣy adabdhā́ ā́ yát sadmā́naṁ divyáṁ vivāsān ||
Let the chant sing the heaven-born Sāman, as we would praise That which is ever increasing and full of the solar wideness. The rays—nourishing like cows—faultless upon the seat of offering, come to the divine dwelling as we serve and make it manifest.
गाय॑त् । साम॑ । न॒भ॒न्य॑म् । यथा॑ । वेः । अर्चा॑म । तत् । व॒वृ॒धा॒नम् । स्वः॑ऽवत् । गावः॑ । धे॒नवः॑ । ब॒र्हिषि॑ । अद॑ब्धाः । आ । यत् । स॒द्मान॑म् । दि॒व्यम् । विवा॑सान् ॥गायत् । साम । नभन्यम् । यथा । वेः । अर्चाम । तत् । ववृधानम् । स्वःवत् । गावः । धेनवः । बर्हिषि । अदब्धाः । आ । यत् । सद्मानम् । दिव्यम् । विवासान् ॥gāyat | sāma | nabhanyam | yathā | veḥ | arcāma | tat | vavṛdhānam | svaḥ-vat | gāvaḥ | dhenavaḥ | barhiṣi | adabdhāḥ | ā | yat | sadmānam | divyam | vivāsān