Sukta 1.173
मो षू ण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः । महश्चिद्यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥
मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः । म॒हश्चि॒द्यस्य॑ मी॒ळ्हुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥
mó ṣū́ ṇa indrā́tra pṛtsú deváir ásti hí ṣmā te śuṣmin avayā́ḥ | máhaś cid yásya mīḷhúṣo yavyā́ havíṣmato marúto vándate gī́ḥ ||
Do not abandon us here, O Indra, in the battles among the gods; for truly, O mighty one, your protections are present. Great indeed is that gracious giver whose ancient, offered oblation the Maruts salute with their song.
मो इति॑ । सु । नः॒ । इ॒न्द्र॒ । अत्र॑ । पृ॒त्ऽसु । दे॒वैः । अस्ति॑ । हि । स्म॒ । ते॒ । शु॒ष्मि॒न् । अ॒व॒ऽयाः । म॒हः । चि॒त् । यस्य॑ । मी॒ळ्हुषः॑ । य॒व्या । ह॒विष्म॑तः । म॒रुतः॑ । वन्द॑ते । गीः ॥मो इति । सु । नः । इन्द्र । अत्र । पृत्सु । देवैः । अस्ति । हि । स्म । ते । शुष्मिन् । अवयाः । महः । चित् । यस्य । मीळ्हुषः । यव्या । हविष्मतः । मरुतः । वन्दते । गीः ॥mo iti | su | ṇaḥ | indra | atra | pṛt-su | devaiḥ | asti | hi | sma | te | śuṣmin | ava-yāḥ | mahaḥ | cit | yasya | mīḷhuṣaḥ | yavyā | haviṣmataḥ | marutaḥ | vandate | gīḥ