Sukta 1.173
विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः । मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥
विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिन्द्रो॒ वज्र॑हस्तः । मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः ॥
víspardhaso narā́m na śáṃsair asmā́kāsad índro vájrahastaḥ | mitrāyúvo na pū́rpatíṃ suśíṣṭau madhyāyúva úpa śíkṣanti yajñáiḥ ||
By our praises, like those of men who contend, may Indra of the thunderbolt-hand become ours. As comrades of Mitra train a city-lord in good discipline, so do the middle-young (growing powers) instruct and draw near by the sacrifices.
विऽस्प॑र्धसः । न॒राम् । न । शंसैः॑ । अ॒स्माक॑ । अ॒स॒त् । इन्द्रः॑ । वज्र॑ऽहस्तः । मि॒त्र॒ऽयुवः॑ । न । पूःऽप॑तिम् । सुऽशि॑श्टौ । म॒ध्य॒ऽयुवः॑ । उप॑ । शि॒क्ष॒न्ति॒ । य॒ज्ञैः ॥विस्पर्धसः । नराम् । न । शंसैः । अस्माक । असत् । इन्द्रः । वज्रहस्तः । मित्रयुवः । न । पूःपतिम् । सुशिश्टौ । मध्ययुवः । उप । शिक्षन्ति । यज्ञैः ॥vi-spardhasaḥ | narām | na | śaṃsaiḥ | asmāka | asat | indraḥ | vajra-hastaḥ | mitra-yuvaḥ | na | pūḥ-patim | su-śiśṭau | madhya-yuvaḥ | upa | śikṣanti | yajñaiḥ