Sukta 1.172
आरे सा वः सुदानवो मरुत ऋञ्जती शरुः । आरे अश्मा यमस्यथ ॥
आ॒रे सा व॑: सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑: । आ॒रे अश्मा॒ यमस्य॑थ ॥
āré sā́ vaḥ su-dānavo máruta ṛñjatī́ śáruḥ | āré áśmā yám asyatha ||
Far from you, O generous Maruts, be that reddening dart; far away cast the stone that strikes—let the hostile blow be driven away from our path.
आ॒रे । सा । वः॒ । सु॒ऽदा॒न॒वः॒ । मरु॑तः । ऋ॒ञ्ज॒ती । शरुः॑ । आ॒रे । अश्मा॑ । यम् । अस्य॑थ ॥आरे । सा । वः । सुदानवः । मरुतः । ऋञ्जती । शरुः । आरे । अश्मा । यम् । अस्यथ ॥āre | sā | vaḥ | su-dānavaḥ | marutaḥ | ṛñjatī | śaruḥ | āre | aśmā | yam | asyatha