Sukta 1.170
अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः । तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥
अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः । तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥
áraṃ kṛṇvantu védim sám agním indhatāṃ puráḥ | tátrāmṛ́tasya cétanaṃ yajñáṃ te tanavāvahai ||
Let them make ready the altar; let them kindle the Fire in front. There, in that place, may we extend for thee the sacrifice that is the awakening of immortality—building in the body the conscious rite that opens to the deathless.
अर॑म् । कृ॒ण्व॒न्तु॒ । वेदि॑म् । सम् । अ॒ग्निम् । इ॒न्ध॒ता॒म् । पु॒रः । तत्र॑ । अ॒मृत॑स्य । चेत॑नम् । य॒ज्ञम् । ते॒ । त॒न॒वा॒व॒है॒ ॥अरम् । कृण्वन्तु । वेदिम् । सम् । अग्निम् । इन्धताम् । पुरः । तत्र । अमृतस्य । चेतनम् । यज्ञम् । ते । तनवावहै ॥aram | kṛṇvantu | vedim | sam | agnim | indhatām | puraḥ | tatra | amṛtasya | cetanam | yajñam | te | tanavāvahai