Sukta 1.170
किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे । विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि ॥
किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे । वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ॥
kíṃ no bhrātar agastya sakhā́ sán áti manyase | vidmā́ hí te yáthā máno ’smábhyam ínna dítsasi ||
Why, O brother Agastya, though a friend, dost thou think beyond measure? We know indeed how thy mind stands; thou wouldst not truly give thyself to us. Therefore let the friendship become transparent and the will be made straight.
किम् । न॒ । भ्रा॒तः॒ । अ॒ग॒स्त्य॒ । सखा॑ । सन् । अति॑ । म॒न्य॒से॒ । वि॒द्म । हि । ते॒ । यथा॑ । मनः॑ । अ॒स्मभ्य॑म् । इत् । न । दि॒त्स॒सि॒ ॥किम् । न । भ्रातः । अगस्त्य । सखा । सन् । अति । मन्यसे । विद्म । हि । ते । यथा । मनः । अस्मभ्यम् । इत् । न । दित्ससि ॥kim | na | bhrātaḥ | agastya | sakhā | san | ati | manyase | vidma | hi | te | yathā | manaḥ | asmabhyam | it | na | ditsasi