Sukta 1.170
त्वमीशिषे वसुपते वसूनां त्वं मित्राणां मित्रपते धेष्ठः । इन्द्र त्वं मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥
त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठ॑: । इन्द्र॒ त्वं म॒रुद्भि॒: सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥
tvám īśiṣe vasupate vasū́nāṃ tváṃ mitrā́ṇāṃ mitrapate dhéṣṭhaḥ | índra tváṃ marúdbhiḥ sáṃ vadasvādha práśāna ṛtuthā́ havī́ṃṣi ||
Thou rulest, O lord of the Vasu-powers, over the riches of being; thou art the strongest lord of friendships. O Indra, speak in concord with the Maruts; then partake, in the rhythm of ṛta, of the offerings—so that the right order may be established in us.
त्वम् । ई॒शि॒षे॒ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् । त्वम् । मि॒त्राणा॑म् । मि॒त्र॒ऽप॒ते॒ । धेष्ठः॑ । इन्द्र॑ । त्वम् । म॒रुत्ऽभिः॑ । सम् । व॒द॒स्व॒ । अध॑ । प्र । अ॒शा॒न॒ । ऋ॒तु॒ऽथा । ह॒वींषि॑ ॥त्वम् । ईशिषे । वसुपते । वसूनाम् । त्वम् । मित्राणाम् । मित्रपते । धेष्ठः । इन्द्र । त्वम् । मरुत्भिः । सम् । वदस्व । अध । प्र । अशान । ऋतुथा । हवींषि ॥tvam | īśiṣe | vasu-pate | vasūnām | tvam | mitrāṇām | mitra-pate | dheṣṭhaḥ | indra | tvam | marut-bhiḥ | sam | vadasva | adha | pra | aśāna | ṛtu-thā | havīṃṣi