Sukta 1.170
किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव । तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥
किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ । तेभि॑: कल्पस्व साधु॒या मा न॑: स॒मर॑णे वधीः ॥
kíṃ na indra jighāṃsasi bhrā́taro marútas táva | tébhiḥ kalpasva sādhuyā́ mā naḥ samáraṇe vadhīḥ ||
Why wouldst thou strike us, O Indra, when the Maruts are thy brothers? Harmonize thyself with them in the right way; do not smite us in the clash of striving, but make our battle a concord of powers.
किम् । नः॒ । इ॒न्द्र॒ । जि॒घां॒स॒सि॒ । भ्रात॑रः । म॒रुतः॑ । तव॑ । तेभिः॑ । क॒ल्प॒स्व॒ । सा॒धु॒ऽया । मा । नः॒ । स॒म्ऽअर॑णे । व॒धीः॒ ॥किम् । नः । इन्द्र । जिघांससि । भ्रातरः । मरुतः । तव । तेभिः । कल्पस्व । साधुया । मा । नः । सम्अरणे । वधीः ॥kim | naḥ | indra | jighāṃsasi | bhrātaraḥ | marutaḥ | tava | tebhiḥ | kalpasva | sādhu-yā | mā | naḥ | sam-araṇe | vadhīḥ