Sukta 1.170
न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम् । अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति ॥
न नू॒नमस्ति॒ नो श्वः कस्तद्वे॑द॒ यदद्भु॑तम् । अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥
ná nūnám ásti nó śváḥ kás tád veda yád ádbhutam | anyásya cittám abhí sáṃcareṇyam utā́dhītaṃ ví naśyati ||
Not now, not tomorrow—who can know that wonder? Another’s mind is a field one may move about in, yet what has been learned can vanish; therefore the seeker must found knowledge in the stable truth, not in the shifting play of mentality.
न । नू॒नम् । अस्ति॑ । नो इति॑ । श्वः । कः । तत् । वे॒द॒ । यत् । अद्भु॑तम् । अ॒न्यस्य॑ । चि॒त्तम् । अ॒भि । स॒म्ऽच॒रेण्य॑म् । उ॒त । आऽधी॑तम् । वि । न॒श्य॒ति॒ ॥न । नूनम् । अस्ति । नो इति । श्वः । कः । तत् । वेद । यत् । अद्भुतम् । अन्यस्य । चित्तम् । अभि । सम्चरेण्यम् । उत । आधीतम् । वि । नश्यति ॥na | nūnam | asti | no iti | śvaḥ | kaḥ | tat | veda | yat | adbhutam | anyasya | cittam | abhi | sam-careṇyam | uta | ādhītam | vi | naśyati