Sukta 1.169
प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः । ये मर्त्यं पृतनायन्तमूमैॠणावानं न पतयन्त सर्गैः ॥
प्रति॑ घो॒राणा॒मेता॑नाम॒यासां॑ म॒रुतां॑ शृण्व आय॒तामु॑प॒ब्दिः । ये मर्त्यं॑ पृतना॒यन्त॒मूमै॑ॠणा॒वानं॒ न प॒तय॑न्त॒ सर्गै॑: ॥
práti ghorā́ṇām étānām ayā́sāṃ marútāṃ śṛṇva āyatā́m upabdíḥ | yé mártyaṃ pṛtanāyántaṃ ū́maiḥ ṛṇavā́naṃ ná patáyanta sárgaiḥ ||
Hear in response the oncoming cry of these formidable, unwearied Maruts; for they do not let fall with their rushes the mortal who battles on, but rather bear him through—so that the one in debt to weakness is released into the forward drive of force.
प्रति॑ । घो॒राणा॑म् । एता॑नाम् । अ॒यासा॑म् । म॒रुता॑म् । शृ॒ण्वे॒ । आ॒ऽय॒ताम् । उ॒प॒ब्दिः । ये । मर्त्य॑म् । पृ॒त॒ना॒ऽयन्त॑म् । ऊमैः॑ । ऋ॒ण॒ऽवान॑म् । न । प॒तय॑न्त । सर्गैः॑ ॥प्रति । घोराणाम् । एतानाम् । अयासाम् । मरुताम् । शृण्वे । आयताम् । उपब्दिः । ये । मर्त्यम् । पृतनायन्तम् । ऊमैः । ऋणवानम् । न । पतयन्त । सर्गैः ॥prati | ghorāṇām | etānām | ayāsām | marutām | śṛṇve | āyatām | upabdiḥ | ye | martyam | pṛtanāyantam | ūmaiḥ | ṛṇa-vānam | na | patayanta | sargaiḥ