Sukta 1.169
त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिदृतायोः । ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥
त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तार॒: कस्य॑ चिदृता॒योः । ते षु णो॑ म॒रुतो॑ मृळयन्तु॒ ये स्मा॑ पु॒रा गा॑तू॒यन्ती॑व दे॒वाः ॥
tvé rā́ya indra tośátamāḥ praṇetā́raḥ kásya cid ṛtāyóḥ | té ṣú ṇo marúto mṛḷayantu yé smā purā gātūyántīva devā́ḥ ||
In you, O Indra, are the most satisfying riches; you are the guide of whoever walks in the ways of the Truth. Therefore may the Maruts be gracious to us—those gods who from of old were as if seekers and makers of the paths—opening the right passages for our advance.
त्वे इति॑ । रायः॑ । इ॒न्द्र॒ । तो॒शऽत॑माः । प्र॒ऽने॒तारः॑ । कस्य॑ । चि॒त् । ऋ॒त॒ऽयोः । ते । सु । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । ये । स्म॒ । पु॒रा । गा॒तु॒यन्ति॑ऽइव । दे॒वाः ॥त्वे इति । रायः । इन्द्र । तोशतमाः । प्रनेतारः । कस्य । चित् । ऋतयोः । ते । सु । नः । मरुतः । मृळयन्तु । ये । स्म । पुरा । गातुयन्तिइव । देवाः ॥tve iti | rāyaḥ | indra | tośa-tamāḥ | pra-netāraḥ | kasya | cit | ṛta-yoḥ | te | su | naḥ | marutaḥ | mṛḷayantu | ye | sma | purā | gātuyanti-iva | devāḥ