Sukta 1.169
त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् । स्तुतश्च यास्ते चकनन्त वायोः स्तनं न मध्वः पीपयन्त वाजैः ॥
त्वं तू न॑ इन्द्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिम् । स्तुत॑श्च॒ यास्ते॑ च॒कन॑न्त वा॒योः स्तनं॒ न मध्व॑: पीपयन्त॒ वाजै॑: ॥
tváṃ tū́ na indra táṃ rayíṃ dā ójiṣṭhayā dákṣiṇayéva rātím | stutáś ca yā́s te cákananta vāyóḥ stánaṃ ná mádhvaḥ pīpayanta vā́jaiḥ ||
You, O Indra, give us that richness of being by your most puissant right-giving, as one gives the Dakṣiṇā. And those who praise you and delight in you, they make swell the honeyed breast of Vāyu with vāja—plenitudes of force—so the life-breath becomes abundant and sweet for the work.
त्वम् । तु । नः॒ । इ॒न्द्र॒ । तम् । र॒यिम् । दाः॒ । ओजि॑ष्ठया । दक्षि॑णयाऽइव । रा॒तिम् । स्तुतः॑ । च॒ । याः । ते॒ । च॒कन॑न्त । वा॒योः । स्तन॑म् । न । मध्वः॑ । पी॒प॒य॒न्त॒ । वाजैः॑ ॥त्वम् । तु । नः । इन्द्र । तम् । रयिम् । दाः । ओजिष्ठया । दक्षिणयाइव । रातिम् । स्तुतः । च । याः । ते । चकनन्त । वायोः । स्तनम् । न । मध्वः । पीपयन्त । वाजैः ॥tvam | tu | naḥ | indra | tam | rayim | dāḥ | ojiṣṭhayā | dakṣiṇayāiva | rātim | stutaḥ | ca | yāḥ | te | cakananta | vāyoḥ | stanam | na | madhvaḥ | pīpayanta | vājaiḥ