Sukta 1.169
अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति । अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥
अम्य॒क्सा त॑ इन्द्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं॑ म॒रुतो॑ जुनन्ति । अ॒ग्निश्चि॒द्धि ष्मा॑त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां॑सि ॥
amyák sā́ ta indra ṛṣṭír asmḗ sanémi ábhvaṃ marúto junanti | agníś cid dhí ṣmā́tase śuśukvā́n ā́po ná dvīpáṃ dádhati prayā́ṃsi ||
Straight and sure is your spear for us, O Indra; the Maruts urge on the vast winning. Even Agni, blazing for the traveler, sets the forward movements in place—like waters that establish an island—so the journey through the flood becomes a founded passage.
अम्य॑क् । सा । ते॒ । इ॒न्द्र॒ । ऋ॒ष्टिः । अ॒स्मे इति॑ । सने॑मि । अभ्व॑म् । म॒रुतः॑ । जु॒न॒न्ति॒ । अ॒ग्निः । चि॒त् । हि । स्म॒ । अ॒त॒से । शु॒शु॒क्वान् आपः॑ । न । द्वी॒पम् । दध॑ति । प्रयां॑सि ॥अम्यक् । सा । ते । इन्द्र । ऋष्टिः । अस्मे इति । सनेमि । अभ्वम् । मरुतः । जुनन्ति । अग्निः । चित् । हि । स्म । अतसे । शुशुक्वान् आपः । न । द्वीपम् । दधति । प्रयांसि ॥amyak | sā | te | indra | ṛṣṭiḥ | asme iti | sanemi | abhvam | marutaḥ | junanti | agniḥ | cit | hi | sma | atase | śuśukvān āpaḥ | na | dvīpam | dadhati | prayāṃsi