Sukta 1.168
सातिर्न वोऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती । भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥
सा॒तिर्न वोऽम॑वती॒ स्व॑र्वती त्वे॒षा विपा॑का मरुत॒: पिपि॑ष्वती । भ॒द्रा वो॑ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी॑ असु॒र्ये॑व॒ जञ्ज॑ती ॥
sātír na vo ’mavatī svàrvatī tvéṣā vipā́kā marutaḥ pípiṣvatī | bhadrā́ vo rātíḥ pṛṇató ná dákṣiṇā pṛthujráyī asuryéva jáñjatī ||
May your winning-force be for us full of might and full of the solar plenitude—keen, ripening the being, and increasing our substance. Auspicious be your gift, like the Dakṣiṇā that fills the giver: wide-striding, impelling like a lordly power, it drives us onward into a larger movement.
सा॒तिः । न । वः॒ । अम॑ऽवती । स्वः॑ऽवती । त्वे॒षा । विऽपा॑का । म॒रु॒तः॒ । पिपि॑ष्वती । भ॒द्रा । वः॒ । रा॒तिः । पृ॒ण॒तः । न । दक्षि॑णा । पृ॒थु॒ऽज्रयी॑ । असु॒र्या॑ऽइव । जञ्ज॑ती ॥सातिः । न । वः । अमवती । स्वःवती । त्वेषा । विपाका । मरुतः । पिपिष्वती । भद्रा । वः । रातिः । पृणतः । न । दक्षिणा । पृथुज्रयी । असुर्याइव । जञ्जती ॥sātiḥ | na | vaḥ | ama-vatī | svaḥ-vatī | tveṣā | vi-pākā | marutaḥ | pipiṣvatī | bhadrā | vaḥ | rātiḥ | pṛṇataḥ | na | dakṣiṇā | pṛthu-jrayī | asuryāiva | jañjatī