Sukta 1.168
वव्रासो न ये स्वजाः स्वतवस इषं स्वरभिजायन्त धूतयः । सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥
व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जाय॑न्त॒ धूत॑यः । स॒ह॒स्रिया॑सो अ॒पां नोर्मय॑ आ॒सा गावो॒ वन्द्या॑सो॒ नोक्षण॑: ॥
vavrā́so ná yé sva-jā́ḥ svá-tavasa íṣaṃ svàr abhi-jā́yanta dhū́tayaḥ | sahasriyā́so apā́ṃ nórmaya āsā́ gā́vo vándyāso nókṣaṇaḥ ||
Like fenced enclosures, self-born and self-mighty, they are shaken into birth toward the luminous heaven with the energizing plenty. Thousandfold like the waves of waters is their coming; like cattle worthy of praise, like strong bulls, they advance.
व॒व्रासः॑ । न । ये । स्व॒ऽजाः । स्वऽत॑वसः । इष॑म् । स्वः॑ । अ॒भि॒ऽजाय॑न्त । धूत॑यः । स॒ह॒स्रिया॑सः । अ॒पाम् । न । ऊ॒र्मयः॑ । आ॒सा । गावः॑ । वन्द्या॑सः । न । उ॒क्षणः॑ ॥वव्रासः । न । ये । स्वजाः । स्वतवसः । इषम् । स्वः । अभिजायन्त । धूतयः । सहस्रियासः । अपाम् । न । ऊर्मयः । आसा । गावः । वन्द्यासः । न । उक्षणः ॥vavrāsaḥ | na | ye | sva-jāḥ | sva-tavasaḥ | iṣam | svaḥ | abhi-jāyanta | dhūtayaḥ | sahasriyāsaḥ | apām | na | ūrmayaḥ | āsā | gāvaḥ | vandyāsaḥ | na | ukṣaṇaḥ