Sukta 1.168
सोमासो न ये सुतास्तृप्तांशवो हृत्सु पीतासो दुवसो नासते । ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सं दधे ॥
सोमा॑सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो॑ दु॒वसो॒ नास॑ते । ऐषा॒मंसे॑षु र॒म्भिणी॑व रारभे॒ हस्ते॑षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ॥
sómāso ná yé sutā́s tṛptā́ṃśavo hṛtsú pītā́so duvásō násate | aiṣā́m áṃseṣu rambhiṇī́va rārabhe hás teṣu khādíś ca kṛtíś ca sáṃ dadhe ||
Like Soma draughts pressed out, their streams satisfied, drunk in the heart, they take their seat in the giving. On their shoulders the rambhiṇī clings as it were; in their hands the power to break open and the power to fashion are set together.
सोमा॑सः । न । ये । सु॒ताः । तृ॒प्तऽअं॑शवः । हृ॒त्ऽसु । पी॒तासः॑ । दु॒वसः॑ । न । आस॑ते । आ । ए॒षा॒म् । अंसे॑षु । र॒म्भिणी॑ऽइव । र॒र॒भे॒ । हस्ते॑षु । खा॒दिः । च॒ । कृ॒तिः । च॒ । सम् । द॒धे॒ ॥सोमासः । न । ये । सुताः । तृप्तअंशवः । हृत्सु । पीतासः । दुवसः । न । आसते । आ । एषाम् । अंसेषु । रम्भिणीइव । ररभे । हस्तेषु । खादिः । च । कृतिः । च । सम् । दधे ॥somāsaḥ | na | ye | sutāḥ | tṛpta-aṃśavaḥ | hṛt-su | pītāsaḥ | duvasaḥ | na | āsate | ā | eṣām | aṃseṣu | rambhiṇī-iva | rarabhe | hasteṣu | khādiḥ | ca | kṛtiḥ | ca | sam | dadhe