Sukta 1.168
यज्ञायज्ञा वः समना तुतुर्वणिर्धियंधियं वो देवया उ दधिध्वे । आ वोऽर्वाचः सुविताय रोदस्योर्महे ववृत्यामवसे सुवृक्तिभिः ॥
य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं॑धियं वो देव॒या उ॑ दधिध्वे । आ वो॒ऽर्वाच॑: सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभि॑: ॥
yajñā́yajñā vaḥ samanā́ tuturváṇir dhíyaṃ-dhiyaṃ vo deva-yā́ u dadhidhve | ā́ vo 'rvā́caḥ suvitā́ya ródasyoḥ mahé vavṛtyā́m ávase suvṛ́ktibhiḥ ||
From sacrifice to sacrifice you move in one accord, swiftly pressing forward; thought after thought you, godward powers, set in place. To you we turn hither with well-fashioned words for the right going in the two worlds, for the great help.
य॒ज्ञाऽय॑ज्ञा । वः॒ । स॒म॒ना । तु॒तु॒र्वणिः॑ । धिय॑म्ऽधियम् । वः॒ । दे॒व॒ऽयाः । ऊँ॒ इति॑ । द॒धि॒ध्वे॒ । आ । वः॒ । अ॒र्वाचः॑ । सु॒वि॒ताय॑ । रोद॑स्योः । म॒हे । व॒वृ॒त्या॒म् । अव॑से । सु॒वृ॒क्तिऽभिः॑ ॥यज्ञायज्ञा । वः । समना । तुतुर्वणिः । धियम्धियम् । वः । देवयाः । ऊँ इति । दधिध्वे । आ । वः । अर्वाचः । सुविताय । रोदस्योः । महे । ववृत्याम् । अवसे । सुवृक्तिभिः ॥yajñāyajñā | vaḥ | samanā | tuturvaṇiḥ | dhiyam-dhiyam | vaḥ | deva-yāḥ | oṃ iti | dadhidhve | ā | vaḥ | arvācaḥ | suvitāya | rodasyoḥ | mahe | vavṛtyām | avase | suvṛkti-bhiḥ