Sukta 1.166
विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्याहिता । अंसेष्वा वः प्रपथेषु खादयोऽक्षो वश्चक्रा समया वि वावृते ॥
विश्वा॑नि भ॒द्रा म॑रुतो॒ रथे॑षु वो मिथ॒स्पृध्ये॑व तवि॒षाण्याहि॑ता । अंसे॒ष्वा व॒: प्रप॑थेषु खा॒दयोऽक्षो॑ वश्च॒क्रा स॒मया॒ वि वा॑वृते ॥
viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyāiva taviṣāṇy āhitā | aṃseṣvā vaḥ pra-patheṣu khādayo 'kṣo vaś cakrā samayā vi vavṛte ||
All auspicious powers are set upon your chariots, O Maruts, as if in mutual rivalry of strength. Upon your shoulders on the forward paths are the biting edges; your axle and your wheels together roll on, perfectly timed.
विश्वा॑नि । भ॒द्रा । म॒रु॒तः॒ । रथे॑षु । वः॒ । मि॒थ॒स्पृध्या॑ऽइव । त॒वि॒षाणि॑ । आऽहि॑ता । अंसे॑षु । आ । वः॒ । प्रऽप॑थेषु । खा॒दयः॑ । अक्षः॑ । वः॒ । च॒क्रा । स॒मया॑ । वि । व॒वृ॒ते॒ ॥विश्वानि । भद्रा । मरुतः । रथेषु । वः । मिथस्पृध्याइव । तविषाणि । आहिता । अंसेषु । आ । वः । प्रपथेषु । खादयः । अक्षः । वः । चक्रा । समया । वि । ववृते ॥viśvāni | bhadrā | marutaḥ | ratheṣu | vaḥ | mithaspṛdhyāiva | taviṣāṇi | āhitā | aṃseṣu | ā | vaḥ | pra-patheṣu | khādayaḥ | akṣaḥ | vaḥ | cakrā | samayā | vi | vavṛte