Sukta 1.166
भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः । अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे ॥
भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्ष॑स्सु रु॒क्मा र॑भ॒सासो॑ अ॒ञ्जय॑: । अंसे॒ष्वेता॑: प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥
bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣaḥsu rukmā rabhasāso añjayaḥ | aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire ||
Many are the auspicious splendours on your heroic arms; on your chests the golden adornments, O impetuous ones. Upon your shoulders are these sharp blades upon the rims—like birds spreading their wings, the glories are set out along you.
भूरी॑णि । भ॒द्रा । नर्ये॑षु । बा॒हुषु॑ । वक्षः॑ऽसु । रु॒क्माः । र॒भ॒सासः॑ । अ॒ञ्जयः॑ । अंसे॑षु । एताः॑ । प॒विषु॑ । क्षु॒राः । अधि॑ । वयः॑ । न । प॒क्षान् । वि । अनु॑ । श्रियः॑ । धि॒रे॒ ॥भूरीणि । भद्रा । नर्येषु । बाहुषु । वक्षःसु । रुक्माः । रभसासः । अञ्जयः । अंसेषु । एताः । पविषु । क्षुराः । अधि । वयः । न । पक्षान् । वि । अनु । श्रियः । धिरे ॥bhūrīṇi | bhadrā | naryeṣu | bāhuṣu | vakṣaḥ-su | rukmāḥ | rabhasāsaḥ | añjayaḥ | aṃseṣu | etāḥ | paviṣu | kṣurāḥ | adhi | vayaḥ | na | pakṣān | vi | anu | śriyaḥ | dhire