Sukta 1.166
शतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत । जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात्तनयस्य पुष्टिषु ॥
श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त । जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ॥
śatabhuji-bhis tam abhi-hruter aghāt pūḥ-bhī rakṣata maruto yam āvat | janaṃ yam ugrās tavaso vi-rapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu ||
With your hundred arms protect him from the onrush of harm, O Maruts—him whom you favour. The man whom you, strong and mighty, far-reaching in your working, lead along—guard him by the power of the praise, in the prosperings of his child and his growth.
श॒तभु॑जिऽभिः । तम् । अ॒भिऽह्रु॑तेः । अ॒घात् । पूः॒ऽभिः । र॒क्ष॒त॒ । म॒रु॒तः॒ । यम् । आव॑त । जन॑म् । यम् । उ॒ग्राः॒ । त॒व॒सः॒ । वि॒ऽर॒प्शि॒नः॒ । पा॒थन॑ । शंसा॑त् । तन॑यस्य । पु॒ष्टिषु॑ ॥शतभुजिभिः । तम् । अभिह्रुतेः । अघात् । पूःभिः । रक्षत । मरुतः । यम् । आवत । जनम् । यम् । उग्राः । तवसः । विरप्शिनः । पाथन । शंसात् । तनयस्य । पुष्टिषु ॥śatabhuji-bhiḥ | tam | abhi-hruteḥ | aghāt | pūḥ-bhiḥ | rakṣata | marutaḥ | yam | āvata | janam | yam | ugrāḥ | tavasaḥ | vi-rapśinaḥ | pāthana | śaṃsāt | tanayasya | puṣṭiṣu