Sukta 1.166
प्र स्कम्भदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः । अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य प्रथमानि पौंस्या ॥
प्र स्क॒म्भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः । अर्च॑न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥
pra skambha-deṣṇā anavabhra-rādhaso 'lātṛṇāso vidatheṣu su-stutāḥ | arcanty arkaṃ madirasya pītaye vidur vīrasya prathamāni paiṃsyā ||
Pillars of support, unbroken in their giving, they are rightly praised in the assemblies. They chant the hymn for the drinking of the rapturous delight; they know the first heroic powers of the Warrior within.
प्र । स्क॒म्भऽदे॑ष्णाः । अ॒न॒व॒भ्रऽरा॑धसः । अ॒ला॒तृ॒णासः॑ । वि॒दथे॑षु । सुऽस्तु॑ताः । अर्च॑न्ति । अ॒र्कम् । म॒दि॒रस्य॑ । पी॒तये॑ । वि॒दुः । वी॒रस्य॑ । प्र॒थ॒मानि॑ । पौंस्या॑ ॥प्र । स्कम्भदेष्णाः । अनवभ्रराधसः । अलातृणासः । विदथेषु । सुस्तुताः । अर्चन्ति । अर्कम् । मदिरस्य । पीतये । विदुः । वीरस्य । प्रथमानि । पौंस्या ॥pra | skambha-deṣṇāḥ | anavabhra-rādhasaḥ | alātṛṇāsaḥ | vidatheṣu | su-stutāḥ | arcanti | arkam | madirasya | pītaye | viduḥ | vīrasya | prathamāni | paiṃsyā